1. युद्धं किमस्ति?
1. परिचयः प्रस्तावयामि यद् विषस्य विभिन्नतत्त्वानि विचर्यन्तां ततस् तस्य विभिन्ना भागा उत वा पर्वाणि। अन्तत आन्तरिकरचनया साकं पूर्णम्। अर्थात् सरलविषयतः कठिनविषयपर्यन्तमग्रेसरिष्यामि। किन्तु युद्धस्य विषयैवान्यविषयेभ्योऽधिकं पूर्णस्य स्वभावं दृष्ट्वा हि प्रारम्भणीयम्। यद्ध्यपरतोऽधिकमत्रैवोभौ भागः पूर्णं च सदा सम्भूयैव विचर्येताम्। 2. परिभाषा युद्धस्य ग्रान्थिकायाः पण्डितकायाः परिभाषाया व्याख्यानं कुर्वन् नारप्स्ये। उत विषयस्य केन्द्रं प्रति गच्छामि - तदस्ति द्वन्दम्। युद्धं तु केवलं विशालस्तरे द्वन्दमस्ति। बहूनां द्वन्द्वानां मेलनमस्ति युद्धम्। किन्तु युद्धस्य पूर्णरुपं मल्लयोधयोः स्पर्धामिव चित्रीकर्तुं शक्यते। प्रत्येको बलादपरं स्ववश आनेतुं प्रयतते। प्रतिद्वन्द्वस्य पातनं हि तस्य प्रथमलक्ष्यं तथेतोऽपि विरोधयितुमसमर्थीकरोति। तथा युद्धं शत्रुमाज्ञापयितुं विवशीकर्तुं बलकार्यमस्ति। बलं विपक्षबलं निवारयितुं कलाविज्ञानयोराविष्कारानामुप्योगं करोति। बलेन सह स्वस्मिन् केचनारोपिता अव्यक्ताश्च नियमा येषामुल्लेखनमनावश्यकमेव। अन्तर्राष्ट्रीयन्यायावस्था वा प्रथा वा कथ्यते किन...