1. युद्धं किमस्ति?
1. परिचयः
प्रस्तावयामि यद् विषस्य विभिन्नतत्त्वानि विचर्यन्तां ततस् तस्य विभिन्ना भागा उत वा पर्वाणि। अन्तत आन्तरिकरचनया साकं पूर्णम्। अर्थात् सरलविषयतः कठिनविषयपर्यन्तमग्रेसरिष्यामि। किन्तु युद्धस्य विषयैवान्यविषयेभ्योऽधिकं पूर्णस्य स्वभावं दृष्ट्वा हि प्रारम्भणीयम्। यद्ध्यपरतोऽधिकमत्रैवोभौ भागः पूर्णं च सदा सम्भूयैव विचर्येताम्।
2. परिभाषा
युद्धस्य ग्रान्थिकायाः पण्डितकायाः परिभाषाया व्याख्यानं कुर्वन् नारप्स्ये। उत विषयस्य केन्द्रं प्रति गच्छामि - तदस्ति द्वन्दम्। युद्धं तु केवलं विशालस्तरे द्वन्दमस्ति। बहूनां द्वन्द्वानां मेलनमस्ति युद्धम्। किन्तु युद्धस्य पूर्णरुपं मल्लयोधयोः स्पर्धामिव चित्रीकर्तुं शक्यते। प्रत्येको बलादपरं स्ववश आनेतुं प्रयतते। प्रतिद्वन्द्वस्य पातनं हि तस्य प्रथमलक्ष्यं तथेतोऽपि विरोधयितुमसमर्थीकरोति।
तथा युद्धं शत्रुमाज्ञापयितुं विवशीकर्तुं बलकार्यमस्ति।
बलं विपक्षबलं निवारयितुं कलाविज्ञानयोराविष्कारानामुप्योगं करोति। बलेन सह स्वस्मिन् केचनारोपिता अव्यक्ताश्च नियमा येषामुल्लेखनमनावश्यकमेव। अन्तर्राष्ट्रीयन्यायावस्था वा प्रथा वा कथ्यते किन्तु युद्धं न दुर्बलीकरोति। बलं भौतिकशक्तिरस्ति न तु नैतिकशक्तिर् यद्धि नैतिकशक्तेर् वास्तविकता विना राष्ट्र्रं विना न्यायमशक्यते। भौतिकशक्तिर् युद्धस्य साधनमस्ति यस्योद्देश्यं शत्रुं वशीकर्तुमस्ति। उद्देश्यं साधयितुं शत्रोर्दुर्बलीकरणमावश्यकं। सिद्धान्तस्यानुसारि तदेव युद्धस्य लक्ष्यम्। तल् लक्ष्यमुद्देश्यस्य स्थान आरोहति। तदा युद्धस्य भागं नास्तीति प्रतिभात्वा तदुद्देश्यं त्यजति।
3. यथाशक्यं बलप्रयोगः
विनाधिकं रक्तपातं शत्रुं विशस्त्रीकर्तुं वा पराजेतुं वा कोऽप्युचितो मार्गो भवेदेति दयालव आलोचयेयुस् तथा युद्धस्य वास्तविकलक्ष्यं तदेवेति चिन्तयेयुः। अवश्यम बहुभ्यो रोचते किन्तु चिन्तनमिदं भ्रामकमेव यस्य शोधनमावश्यकमस्ति। युद्धं तु भयानककार्यमस्ति यस्मिन् कार्यकलापे दयाया उत्पन्ना दोषा निकृष्टतमा एव। यावच्छक्यो बलप्रयोगेन सह बुद्धिबलमशक्यत इति सत्यं नास्ति। यदि कोऽपि पक्षः सङ्कोचं वा जनितरक्तपातविषये व्याकुलतां नानुभूत्य बलस्य प्रयोगं करोति यदि विपक्षः स्वं निवारयति तर्हि प्रथमपक्षस्य लाभो भवति। तत्पक्षो विपक्षमनुकरणं कर्तुं विवशीकरोति। प्रत्येकः पक्षोऽपरं चरमं प्रति प्रेषयति। निवारकाः केवलं प्रतिक्रियाः सन्ति।
ईदृशमेव विषयः परीशीलयितव्यः। युद्धस्य दुःखकरी वास्तविकहिंसा न स्वीक्रियते चेद् व्यर्थं दोषपूर्णमपि भवति। यदि बर्बरदेशानां मध्ये युद्धानां विनाशाद् हिंसातश्च सभ्यदेशानां मध्ये युद्धानां विनाशो हिंसा च न्यूनौ तर्हि कारणं राष्ट्राणां सामाजिकपरिस्थितयः परस्परसम्बन्धानि च सन्ति। ते सन्ति युद्धस्य कारकाः किन्तु ते युद्धे प्रतिबन्धान्यप्यध्यारोपयति युद्धस्य शक्तिं परिमितीकरोति च। किन्तु ते युद्धस्य भागा न सन्ति ते योधनात् पूर्वं हि विद्यन्ते। युद्धस्य सिद्धान्ते परिमितितत्वं प्रविश्यते चेत् सदैव तार्किकार्थहीनताया विषयो भवेत्।
युद्धस्य द्वे विशिष्टे कारणे स्तः - विरोधभावो विरोधाशयश्च। अस्माकं परिभाषा विरोधाशयस्योपर्याधारिता यद्धि विरोधाशयः सामान्य एव। विना विरोधाशयं क्रूरतमः, प्रायेण सहजो, घृणाभावो न शक्यते। किन्तु बहुवारं विरोधाशयेन सह विरोधभावो नास्ति। विरोधभावाः सन्ति चेदाधिक्यं न भवेत्। बर्बरप्रजा भावनयाचरनति सभ्यप्रजा बुद्धिनाचरति। उभयोराचरणस्य भेदो बर्बरतायाः सभ्यतायाः स्वभावेषु नास्ति। अपितु स्वस्य स्वस्य परिस्थितीषु संस्थास्वित्यादीषु विद्यते। भेदोऽयं प्रतिवारं न वर्तते किन्तु बहुवारं वर्तते। अर्थात् सभ्यतमा जना अपि घृणाभावनयोत्प्रेर्यन्ते।
सभ्यसमाजानां मध्ये युद्धं तर्कसङ्गतकारणेभ्य उत्पन्नं, युद्धस्य निर्वहणे भावना त्यज्यते च तथान्ततः सेनानां बलप्रयोगोऽनावश्यकः केवलं शक्तिगणनानां तुलना पर्याप्तेति चिन्तनं भ्रमितमेव। ईदृशं युद्धं बीजगणनया कृतम्।
आधुनिकयुद्धेभ्यो लब्धेन ज्ञानेन शास्त्रज्ञा एवमेव चिन्तयितुमारब्धवन्तः। यदि युद्धं बलस्य कार्यकलापोऽस्ति तर्हि भावना अवश्यं निलीनाः सन्ति। युद्धं भावनाभ्य उत्पन्नं मा भवेत् किन्तु भवनानां प्रभावः किञ्चिदपि स्यात्। प्रभावस्यास्य परिमाणः सभ्यतायाः स्तरे न निर्भरः किन्तु विरोधिनां हितानां महत्त्वे युद्धस्य कालवधौ च निर्भरः। सभ्यराष्ट्राणि युद्धबन्धिनां वा नगराणां देशानां ध्वंसं वा न कुर्वन्ति यद्धि तेषां युद्धविधौ बुद्धिबलं महत्त्वपूर्णां भूमिकां निर्वहति बलप्रयोगानामितोऽपि पलोत्पादकानि तन्त्राणि पाठयति न त्वपक्वसहजज्ञानस्याभिव्यक्तिम्।
आग्नेयछूर्णस्याविष्करणमग्न्यस्त्राणामविरामप्रवृद्धिश्च प्रदर्शयितुं पर्याप्तौ यत् सभ्यतायाः प्रगत्यानन्तरमपि शत्रुनाशनमिति युद्धस्य मुख्योद्देश्यं न परिवर्तितम्। सिद्धान्तः पुनर्वक्तव्यः - युद्धं बलस्य क्रियास्ति, बलप्रयोगे तार्किकसीमा नास्ति च। प्रत्येकपक्षोऽन्यपक्षं प्रतिकर्तुं विवशीकरोति। तथा प्रतिक्रियारब्धा यया तीव्रता प्रापनीया। ईदृशं परस्परक्रिया प्रथमा तीव्रता चान्विष्टे।
4. शत्रुं विशस्त्रीकर्तुमेव लक्ष्यमस्ति
पूर्वमेव निगदितं यद् युद्धस्योद्देश्यं शत्रुं विशस्त्रीकर्तुमस्ति तथाधुना दर्शयितुं समय आसन्नो यन् न्यूनातिन्यूनं सिद्धान्तस्यानुसारीदं सत्यमेव। शत्रुं विवशीकर्तुमिच्छास्ति चेत् स शत्रुस् तादृशीष्वननुकूलपरिस्थितिषु पातयितव्यो यतो निर्गन्तुं कमपित्यागं कर्तुमुद्युक्तो भवेत्। तादृशीभ्यः परिस्थितिभ्य उत्पन्न कष्टानि केवलं क्षणिकानि न भवितव्यानि न्यूनातिन्यूनं स्वरूपेण न। नो चेत् शत्रुः पराजयमस्वीकृत्य परिस्थितीनां परिवर्तनार्थमपेक्षां करोति। युद्धस्यानुवर्तनं कृत्वा किमपि परिवर्तनमानयति चेत् सिद्धान्तमनुसृत्य तेन परिवर्तनेन शत्रोः परिस्थितिः कष्टकरी कर्तव्या। कोऽपि युद्धरतः पूर्णतया निस्सहायो जायते चेत् तस्य परिस्थितिः कष्टतमास्ति। तस्माद् युद्धं कृत्वा शत्रुं विवशीकर्तुमाज्ञापयितुमिच्छति चेत् शत्रुं निस्सहायं करोतु नो चेत् तं तादृश्यां परिस्थितौ पातयतु यतो निस्सहायत्वस्यापायो जन्यते। अतएव शत्रुं पराजेतुं वा विशस्त्रीकर्तुं वा सदैव युद्धस्य लक्ष्यं भविष्यति।
युद्धं सजीवस्य निर्जीवस्योपरि क्रिया नास्ति पूर्णतयाविरोधस् तु युद्धं नास्ति किन्तु द्वयोः सजीवयोर् घर्षणमस्ति युद्धम्। युद्धस्यान्तिमलक्ष्यं द्वयोः पक्षयोरन्वयमेति । पुनरपि परस्परक्रिया सञ्जाता। यावत्पर्यन्तं शत्ररुर्न पराभूतस् तावत्पर्यन्तं मां पराजेतुं शक्नोति । अतो मद्वशे यः शत्रुर् नास्ति स मां यावदाज्ञापयेत् तावदहमपि तं शत्रुमाज्ञापयेम। अयं परस्परक्रियाया द्वितीयविषयस् तथा द्वितीयतीव्रत्वं प्रति नयति।
5. यथाशक्यं बलप्रयोगः
शत्रुं पराजेतुमिच्छति चेद् भवत्प्रयासः शत्रोर् विरोधस्यापेक्षयाधिको भवितव्यो यो द्वयोर् विभिन्नयोः कारकयोर् गुणनेन व्याख्यातः। तौ स्तः साधनं मनोबलं च। साधनस्य मात्रा गणनीयास्तु किन्तु केवलमङ्कैर्न।मनोबलस्य परिमितं गणयितुमितोsपि न्यूनं सरलमस्ति तथा केवलमुद्देशस्याभिप्रेरणेन समीपतया मापनं शक्यम्। शत्रोर् विरोधक्षमताया उचितमापनं करोति चेद् भवत् प्रयासानां समाधानं कर्तुं शक्यते। अर्थात् स्वप्रयासाः शत्रोः प्रयासानामपेक्षयाधिका उत वा यावत्शक्यमधिकाः क्रियन्ताम्।किन्तु शत्रुरप्येवमेव कुर्यात् तथा प्रतिस्पर्धा जन्यते योभौ पक्षौ तीव्रत्वं प्रति नेष्यति। तथा परस्परक्रियायास् तीव्रत्वस्य च तृतीयः प्रकरणं स्थापितम्।
6. आचरणे संशोधनम्
भाववाचकविचारमनुसृत्य पृच्छनमनस् तीव्रत्वप्राप्तेः पूर्वं न विरामयति। यतोहि तीव्रत्वं सम्मुखीकरोति। स्वेच्छयाचरन्तीनां स्वन्यायमतिरिच्य कमपि न्यायं न पालयन्तीनां शक्तीनां मध्ये घर्षणम्। युद्धसिद्धान्ताननुसृत्य युद्धस्य लक्ष्यस्य समयांस्तेषां साधनं च निश्चेतुं प्रयत्येत। किन्तु सततपरस्परक्रिया तीव्रत्वानां मध्ये पातयति। तानि तीव्रत्वानि केवलं तर्कीयसूक्ष्मतानां प्रायेणादृश्यादनुक्रमाज् जनितां कल्पनाक्रीडां सन्दर्शयन्ति।समग्रतयावलोक्यते चेत् प्रत्येकं कठिनत्वं लेखनेन निराकृत्य दृढतर्केण घुष्येत यद् यद्धि तीव्रत्वं सदैव लक्ष्यं भवितव्यं तथा सदैव महत्तमप्रयासः करणीयः। ईदृशी घोषणा सङ्क्षिप्तीकरणं स्यात् तथा वास्तवप्रपञ्चं न परिवर्तयति।
इमं तीव्रप्रयासं सरलतया गणयितुं शक्यत इति विश्वस्यते चेदपि मानवबुद्धिरीदृशस्य तार्किकभ्रमस्य वशे गन्तुं सहमतिं न दद्यात्। बहुवारं बलस्यापव्ययो भवति यः शासनकलाया विपरीतोऽस्ति। प्रायेण लक्ष्यसाधनादधिकं मनोबलमावश्यकमस्ति किन्तु न प्राप्यते यद्धि तार्किकसूक्ष्मता मनोबलं न प्रोत्सहायति।
किन्तु काल्पनिकवास्तवं प्रति गम्यते चेत् सर्वमतीवभिन्नं प्रतिभाति। आशावादः काल्पनिकलोके सर्वशक्तिवानस्ति तथा स्वीकारयितुं विवशीकरोति यद् युद्ध उभौ पक्षौ न केवलं सिद्धत्वं वाञ्छतोऽपितु प्राप्नुतः। किन्त्वेवमाचरणे शक्यते वा? आं शक्यते यदि: (अ) युद्धं पूर्णतया विभक्तं कार्यमस्त्यकस्मादेव जायते राजकीयलोकस्य घटनाभ्यो न जन्यते (आ) केवलमेकं निर्णायककार्यं विद्यत उत वा समकालीननिर्णायककार्याणां शृङ्खला (इ) निर्णयं पूर्णं सिद्धं चास्ति तन्निर्णयादुत्पन्नाया राजकीयस्थितेः पूर्वाकलनस्य प्रभावं नास्ति।
7. युद्धं विभक्तकार्यं कदापि नास्ति?
प्रथमसमयमधीकृत्य स्मर्तव्यं यत् कोऽपि पक्षोऽपरस्य कृते काल्पनिको नास्ति। विरोधबलस्य नामतो बाह्यकारकेषु निर्भरस्य मनोबलस्य भागोऽपि नास्ति। मनोबलं पूर्णतयाज्ञातः कारको नास्ति। तस्याद्यतनस्थितिमनुसृत्य श्वस्तनपरिमाणस्य पूर्वानुमानं क्रियेत। कदापि युद्धमकस्मादेव नारभते न विस्तीर्यते च। प्रतिपक्षस्यास्तित्वं कर्माणि चाधीकृत्य क्षमतामापनं शक्यते न तु किं भवितव्यमिति। मनुष्यस् तस्य कृत्यानि च सदा परिपूर्णानि न सन्ति तथा परिपूर्णतां न प्राप्तुं शक्नुवन्ति। ईदृशीनां न्यूनतानां प्रभावं द्वयोः पक्षयोरुपरि विद्यते तथा समीकारणार्थमुपयुज्यते।
8. युद्धे केवलमेकं लघु प्रहरणं न विद्यते
द्वितीयसमयमधीकृत्य निम्नोक्ता टिप्पणी कर्तव्या।
यदि युद्धे केवलं निर्णायकमेकं कार्यमस्त्यु वा समानकालीननिर्णयाः सन्ति तर्हि सज्जीकरणं समग्रं भवेद् यतोहि किमपि वर्जयेच् चेत् तस्य परिष्कारः कदापि न शक्यते। वास्तवलोक उपलभ्येत सज्जीकरणस्यैकैको निकषः प्रतिपक्षस्य पदक्षेपानामुपरि निर्भरो न्यूनातिन्यूनं ज्ञातानां पदक्षेपानामुपरि।अवशिष्टानामज्ञातानां पदक्षेपानां विषये काल्पनिकाकलनं क्रियेत। किन्तु यदि युद्धे कृते निर्णये नैकानां कार्याणां परम्परास्ति तर्हि प्रत्येकं कार्यं सन्दर्भेन सहावलोक्यते चेदागामि-कार्यस्याकलनं भवति। अत्र पुनः काल्पनिकलोको वास्तवलोकेन विवृतो जातस् तथा तीव्रत्वं प्रति गच्छन् प्रयासः परिमितीकृतः। परमवश्यमेव यदि सर्वाण्युपलब्धानि साधनानि प्रयुक्तानि तर्हि सर्वेषु युद्धेषु केवलमेकं निर्णायककार्यमुत वा समकालीननिर्णयानां समूहः स्याद् यद्धि केनापि विषमनिर्णयेन साधनानां मात्रा न्यूनीभवेत्। प्रथमकार्ये हि सर्वाणि साधानानि प्रयुक्तानि चेत् द्वितीयकार्यस्यावश्यकता न स्यात्। परमवश्यमेव यदि सर्वाण्युपलब्धानि साधनानि प्रयुक्तानि तर्हि सर्वेषु युद्धेषु केवलमेकं निर्णायककार्यमुत वा समकालीननिर्णयानां समूहः स्याद् यद्धि केनापि विषमनिर्णयेन साधनानां मात्रा न्यूनीभवेत्। प्रथमकार्ये हि सर्वाणि साधानानि प्रयुक्तानि चेत् द्वितीयकार्यस्यावश्यकता न स्यात्। अनुवर्तिनी सैन्यकार्यवाही प्रथमकार्यस्य भागो भवेदर्थात् तत्कार्येण सह संयोजिता।
Comments
Post a Comment